[{"chaptno":"01","slokano":"001","spart1":"","spart2":"","sparts":[" धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।"," मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥1॥"]},{"chaptno":"01","slokano":"002","spart1":"","spart2":"","sparts":[" दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।"," आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥2॥"]},{"chaptno":"01","slokano":"003","spart1":"","spart2":"","sparts":[" पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।"," व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥3॥"]},{"chaptno":"01","slokano":"004-006","spart1":"","spart2":"","sparts":[" अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥4॥"," धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥5॥"," युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥6॥"]},{"chaptno":"01","slokano":"007","spart1":"","spart2":"","sparts":[" अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।"," नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥7॥"]},{"chaptno":"01","slokano":"008","spart1":"","spart2":"","sparts":[" भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।"," अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥8॥"]},{"chaptno":"01","slokano":"009","spart1":"","spart2":"","sparts":[" अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।"," नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥9॥"]},{"chaptno":"01","slokano":"010","spart1":"","spart2":"","sparts":[" अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।"," पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥10॥"]},{"chaptno":"01","slokano":"011","spart1":"","spart2":"","sparts":[" अयनेषु च सर्वेषु यथाभागमवस्थिताः।"," भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥11॥"]},{"chaptno":"01","slokano":"012","spart1":"","spart2":"","sparts":[" तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।"," सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥12॥"]},{"chaptno":"01","slokano":"013","spart1":"","spart2":"","sparts":[" ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।"," सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥13॥"]},{"chaptno":"01","slokano":"014","spart1":"","spart2":"","sparts":[" ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।"," माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥"]},{"chaptno":"01","slokano":"015","spart1":"","spart2":"","sparts":[" पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः।"," पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥15॥"]},{"chaptno":"01","slokano":"016","spart1":"","spart2":"","sparts":[" अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।"," नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥16॥"]},{"chaptno":"01","slokano":"017-018","spart1":"","spart2":"","sparts":[" काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥17॥"," द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्॥18॥"]},{"chaptno":"01","slokano":"019","spart1":"","spart2":"","sparts":[" स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।"," नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥19॥"]},{"chaptno":"01","slokano":"020-021","spart1":"","spart2":"","sparts":[" अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।","प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः॥20॥"," हृषीकेशं तदा वाक्यमिदमाह महीपते।","सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत॥21॥"]},{"chaptno":"01","slokano":"022","spart1":"","spart2":"","sparts":[" यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।"," कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे॥22॥"]},{"chaptno":"01","slokano":"023","spart1":"","spart2":"","sparts":[" योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।"," धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥23॥"]},{"chaptno":"01","slokano":"024-025","spart1":"","spart2":"","sparts":[" एवमुक्तो हृषीकेशो गुडाकेशेन भारत।","सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥24॥"," भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।","उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति॥25॥"]},{"chaptno":"01","slokano":"026-027","spart1":"","spart2":"","sparts":[" तत्रापश्यत्स्थितान्पार्थः पितृ़नथ पितामहान्।","आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा॥26॥"," श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।"]},{"chaptno":"01","slokano":"027_2-028","spart1":"","spart2":"","sparts":[" तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्॥27॥"," कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।","दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥28॥"]},{"chaptno":"01","slokano":"028_2-029","spart1":"","spart2":"","sparts":[" दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥28॥"," सीदन्ति मम गात्राणि मुखं च परिशुष्यति।","वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥29॥"]},{"chaptno":"01","slokano":"030","spart1":"","spart2":"","sparts":[" गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।"," न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥30॥"]},{"chaptno":"01","slokano":"031","spart1":"","spart2":"","sparts":[" निमित्तानि च पश्यामि विपरीतानि केशव।"," न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥31॥"]},{"chaptno":"01","slokano":"032","spart1":"","spart2":"","sparts":[" न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।"," किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥32॥"]},{"chaptno":"01","slokano":"033-034","spart1":"","spart2":"","sparts":[" येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।","त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥33॥"," आचार्याः पितरः पुत्रास्तथैव च पितामहाः।","मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा॥34॥"]},{"chaptno":"01","slokano":"035","spart1":"","spart2":"","sparts":[" एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।"," अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥35॥"]},{"chaptno":"01","slokano":"036","spart1":"","spart2":"","sparts":[" निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।"," पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥36॥"]},{"chaptno":"01","slokano":"037","spart1":"","spart2":"","sparts":[" तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।"," स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥37॥"]},{"chaptno":"01","slokano":"038-039","spart1":"","spart2":"","sparts":[" यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।","कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥38॥"," कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।","कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥39॥"]},{"chaptno":"01","slokano":"040","spart1":"","spart2":"","sparts":[" कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।"," धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥40॥"]},{"chaptno":"01","slokano":"041","spart1":"","spart2":"","sparts":[" अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।"," स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥41॥"]},{"chaptno":"01","slokano":"042","spart1":"","spart2":"","sparts":[" सङ्करो नरकायैव कुलघ्नानां कुलस्य च।"," पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥42॥"]},{"chaptno":"01","slokano":"043","spart1":"","spart2":"","sparts":[" दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।"," उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥43॥"]},{"chaptno":"01","slokano":"044","spart1":"","spart2":"","sparts":[" उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।"," नरकेऽनियतं वासो भवतीत्यनुशुश्रुम॥44॥"]},{"chaptno":"01","slokano":"045","spart1":"","spart2":"","sparts":[" अहो बत महत्पापं कर्तुं व्यवसिता वयम्।"," यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥45॥"]},{"chaptno":"01","slokano":"046","spart1":"","spart2":"","sparts":[" यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।"," धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥46॥"]},{"chaptno":"01","slokano":"047","spart1":"","spart2":"","sparts":[" एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।"," विसृज्य सशरं चापं शोकसंविग्नमानसः॥47॥"]},{"chaptno":"02","slokano":"001","spart1":"","spart2":"","sparts":["तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।"," विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥1॥"]},{"chaptno":"02","slokano":"002","spart1":"","spart2":"","sparts":["कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।"," अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥2॥"]},{"chaptno":"02","slokano":"003","spart1":"","spart2":"","sparts":["क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।"," क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥3॥"]},{"chaptno":"02","slokano":"004","spart1":"","spart2":"","sparts":["कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।"," इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥4॥"]},{"chaptno":"02","slokano":"005","spart1":"","spart2":"","sparts":["गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके।"," हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥5॥"]},{"chaptno":"02","slokano":"006","spart1":"","spart2":"","sparts":["न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः।"," यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥6॥"]},{"chaptno":"02","slokano":"007","spart1":"","spart2":"","sparts":["कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।"," यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥7॥"]},{"chaptno":"02","slokano":"008","spart1":"","spart2":"","sparts":["न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्।"," अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम्॥8॥"]},{"chaptno":"02","slokano":"009","spart1":"","spart2":"","sparts":["एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।"," न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥9॥"]},{"chaptno":"02","slokano":"010","spart1":"","spart2":"","sparts":["तमुवाच हृषीकेशः प्रहसन्निव भारत।"," सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥10॥"]},{"chaptno":"02","slokano":"011","spart1":"","spart2":"","sparts":["अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।"," गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥11॥"]},{"chaptno":"02","slokano":"012","spart1":"","spart2":"","sparts":["न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।","न चैव न भविष्यामः सर्वे वयमतः परम्॥12॥"]},{"chaptno":"02","slokano":"013","spart1":"","spart2":"","sparts":["देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।"," तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥13॥"]},{"chaptno":"02","slokano":"014","spart1":"","spart2":"","sparts":["मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।"," आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥14॥"]},{"chaptno":"02","slokano":"015","spart1":"","spart2":"","sparts":["यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।"," समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥15॥"]},{"chaptno":"02","slokano":"016","spart1":"","spart2":"","sparts":["नासतो विद्यते भावो नाभावो विद्यते सतः।"," उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥16॥"]},{"chaptno":"02","slokano":"017","spart1":"","spart2":"","sparts":["अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।"," विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥17॥"]},{"chaptno":"02","slokano":"018","spart1":"","spart2":"","sparts":["अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।"," अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥18॥"]},{"chaptno":"02","slokano":"019","spart1":"","spart2":"","sparts":["य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।"," उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥19॥"]},{"chaptno":"02","slokano":"020","spart1":"","spart2":"","sparts":["न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।"," अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥20॥"]},{"chaptno":"02","slokano":"021","spart1":"","spart2":"","sparts":["वेदाविनाशिनं नित्यं य एनमजमव्ययम्।"," कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥21॥"]},{"chaptno":"02","slokano":"022","spart1":"","spart2":"","sparts":["वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।"," तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥22॥"]},{"chaptno":"02","slokano":"023","spart1":"","spart2":"","sparts":["नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।"," न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥23॥"]},{"chaptno":"02","slokano":"024","spart1":"","spart2":"","sparts":["अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।"," नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥24॥"]},{"chaptno":"02","slokano":"025","spart1":"","spart2":"","sparts":["अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।"," तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥25॥"]},{"chaptno":"02","slokano":"026","spart1":"","spart2":"","sparts":["अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।"," तथापि त्वं महाबाहो नैवं शोचितुमर्हसि॥26॥"]},{"chaptno":"02","slokano":"027","spart1":"","spart2":"","sparts":["जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।"," तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥27॥"]},{"chaptno":"02","slokano":"028","spart1":"","spart2":"","sparts":["अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।"," अव्यक्तनिधनान्येव तत्र का परिदेवना॥28॥"]},{"chaptno":"02","slokano":"029","spart1":"","spart2":"","sparts":["आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः।"," आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्॥29॥"]},{"chaptno":"02","slokano":"030","spart1":"","spart2":"","sparts":["देही नित्यमवध्योऽयं देहे सर्वस्य भारत।"," तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥30॥"]},{"chaptno":"02","slokano":"031","spart1":"","spart2":"","sparts":["स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि।"," धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते॥31॥"]},{"chaptno":"02","slokano":"032","spart1":"","spart2":"","sparts":["यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।"," सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥32॥"]},{"chaptno":"02","slokano":"033","spart1":"","spart2":"","sparts":["अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।"," ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥33॥"]},{"chaptno":"02","slokano":"034","spart1":"","spart2":"","sparts":["अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।"," संभावितस्य चाकीर्तिर्मरणादतिरिच्यते॥34॥"]},{"chaptno":"02","slokano":"035","spart1":"","spart2":"","sparts":["भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।"," येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35॥"]},{"chaptno":"02","slokano":"036","spart1":"","spart2":"","sparts":["अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।"," निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥36॥"]},{"chaptno":"02","slokano":"037","spart1":"","spart2":"","sparts":["हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।"," तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥37॥"]},{"chaptno":"02","slokano":"038","spart1":"","spart2":"","sparts":["सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।"," ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥38॥"]},{"chaptno":"02","slokano":"039","spart1":"","spart2":"","sparts":["एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु।"," बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥39॥"]},{"chaptno":"02","slokano":"040","spart1":"","spart2":"","sparts":["नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।"," स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥40॥"]},{"chaptno":"02","slokano":"041","spart1":"","spart2":"","sparts":["व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।"," बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥41॥"]},{"chaptno":"02","slokano":"042_043_044","spart1":"","spart2":"","sparts":["यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।"," वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥42॥","\nकामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।"," क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥43॥"," \nभोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।"," व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥44॥"]},{"chaptno":"02","slokano":"045","spart1":"","spart2":"","sparts":["त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।"," निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥45॥"]},{"chaptno":"02","slokano":"046","spart1":"","spart2":"","sparts":["यावानर्थ उदपाने सर्वतः संप्लुतोदके।"," तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥46॥"]},{"chaptno":"02","slokano":"047","spart1":"","spart2":"","sparts":["कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।"," मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥47॥"]},{"chaptno":"02","slokano":"048","spart1":"","spart2":"","sparts":["योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।"," सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥48॥"]},{"chaptno":"02","slokano":"049","spart1":"","spart2":"","sparts":["दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।"," बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥49॥"]},{"chaptno":"02","slokano":"050","spart1":"","spart2":"","sparts":["बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।"," तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥50॥"]},{"chaptno":"02","slokano":"051","spart1":"","spart2":"","sparts":["कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।"," जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥51॥"]},{"chaptno":"02","slokano":"052","spart1":"","spart2":"","sparts":["यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।"," तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52॥"]},{"chaptno":"02","slokano":"053","spart1":"","spart2":"","sparts":["श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।"," समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥53॥"]},{"chaptno":"02","slokano":"054","spart1":"","spart2":"","sparts":["स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।"," स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54॥"]},{"chaptno":"02","slokano":"055","spart1":"","spart2":"","sparts":["प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।"," आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥55॥"]},{"chaptno":"02","slokano":"056","spart1":"","spart2":"","sparts":["दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।"," वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥56॥"]},{"chaptno":"02","slokano":"057","spart1":"","spart2":"","sparts":["यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।"," नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥57॥"]},{"chaptno":"02","slokano":"058","spart1":"","spart2":"","sparts":["यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।"," इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥58॥"]},{"chaptno":"02","slokano":"059","spart1":"","spart2":"","sparts":["विषया विनिवर्तन्ते निराहारस्य देहिनः।"," रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥59॥"]},{"chaptno":"02","slokano":"060","spart1":"","spart2":"","sparts":["यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।"," इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥60॥"]},{"chaptno":"02","slokano":"061","spart1":"","spart2":"","sparts":["तानि सर्वाणि संयम्य युक्त आसीत मत्परः।"," वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥61॥"]},{"chaptno":"02","slokano":"062","spart1":"","spart2":"","sparts":["ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।"," सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते॥62॥"]},{"chaptno":"02","slokano":"063","spart1":"","spart2":"","sparts":["क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।"," स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥63॥"]},{"chaptno":"02","slokano":"064","spart1":"","spart2":"","sparts":["रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।"," आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥64॥"]},{"chaptno":"02","slokano":"065","spart1":"","spart2":"","sparts":["प्रसादे सर्वदुःखानां हानिरस्योपजायते।"," प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥65॥"]},{"chaptno":"02","slokano":"066","spart1":"","spart2":"","sparts":["नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।"," न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥66॥"]},{"chaptno":"02","slokano":"067","spart1":"","spart2":"","sparts":["इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।"," तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥67॥"]},{"chaptno":"02","slokano":"068","spart1":"","spart2":"","sparts":["तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।"," इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥68॥"]},{"chaptno":"02","slokano":"069","spart1":"","spart2":"","sparts":["या निशा सर्वभूतानां तस्यां जागर्ति संयमी।"," यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥69॥"]},{"chaptno":"02","slokano":"070","spart1":"","spart2":"","sparts":["आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्।"," तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥70॥"]},{"chaptno":"02","slokano":"071","spart1":"","spart2":"","sparts":["विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।"," निर्ममो निरहंकारः स शांतिमधिगच्छति॥71॥"]},{"chaptno":"02","slokano":"072","spart1":"","spart2":"","sparts":["एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।","स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥72॥"]},{"chaptno":"03","slokano":"001","spart1":"","spart2":"","sparts":[" ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।"," तत्किं कर्मणि घोरे मां नियोजयसि केशव॥1॥"]},{"chaptno":"03","slokano":"002","spart1":"","spart2":"","sparts":[" व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।"," तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥2॥"]},{"chaptno":"03","slokano":"003","spart1":"","spart2":"","sparts":[" लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।"," ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्॥3॥"]},{"chaptno":"03","slokano":"004","spart1":"","spart2":"","sparts":[" न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।"," न च संन्यसनादेव सिद्धिं समधिगच्छति॥4॥"]},{"chaptno":"03","slokano":"005","spart1":"","spart2":"","sparts":[" न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।"," कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥5॥"]},{"chaptno":"03","slokano":"006","spart1":"","spart2":"","sparts":[" कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।"," इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते॥6॥"]},{"chaptno":"03","slokano":"007","spart1":"","spart2":"","sparts":[" यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।"," कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥7॥"]},{"chaptno":"03","slokano":"008","spart1":"","spart2":"","sparts":[" नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।"," शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥8॥"]},{"chaptno":"03","slokano":"009","spart1":"","spart2":"","sparts":["यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।","ततदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥9॥"]},{"chaptno":"03","slokano":"010","spart1":"","spart2":"","sparts":[" सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।"," अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥10॥"]},{"chaptno":"03","slokano":"011","spart1":"","spart2":"","sparts":[" देवान्भावयतानेन ते देवा भावयन्तु वः।"," परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥11॥"]},{"chaptno":"03","slokano":"012","spart1":"","spart2":"","sparts":[" इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।"," तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥12॥"]},{"chaptno":"03","slokano":"013","spart1":"","spart2":"","sparts":[" यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।"," भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥13॥"]},{"chaptno":"03","slokano":"014","spart1":"","spart2":"","sparts":[" अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।"," यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥14॥"]},{"chaptno":"03","slokano":"015","spart1":"","spart2":"","sparts":[" कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्।"," तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15॥"]},{"chaptno":"03","slokano":"016","spart1":"","spart2":"","sparts":[" एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।"," अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16॥"]},{"chaptno":"03","slokano":"017","spart1":"","spart2":"","sparts":[" यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।"," आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥17॥"]},{"chaptno":"03","slokano":"018","spart1":"","spart2":"","sparts":[" नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।"," न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥18॥"]},{"chaptno":"03","slokano":"019","spart1":"","spart2":"","sparts":[" तस्मादसक्तः सततं कार्यं कर्म समाचर।"," असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥19॥"]},{"chaptno":"03","slokano":"020","spart1":"","spart2":"","sparts":[" कर्मणैव हि संसिद्धिमास्थिता जनकादयः।"," लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि॥20॥"]},{"chaptno":"03","slokano":"021","spart1":"","spart2":"","sparts":[" यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।"," स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥21॥"]},{"chaptno":"03","slokano":"022","spart1":"","spart2":"","sparts":[" न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।"," नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥22॥"]},{"chaptno":"03","slokano":"023","spart1":"","spart2":"","sparts":[" यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।"," मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥23॥"]},{"chaptno":"03","slokano":"024","spart1":"","spart2":"","sparts":[" उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।"," सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥24॥"]},{"chaptno":"03","slokano":"025","spart1":"","spart2":"","sparts":[" सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।"," कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्॥25॥"]},{"chaptno":"03","slokano":"026","spart1":"","spart2":"","sparts":[" न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।"," जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्॥26॥"]},{"chaptno":"03","slokano":"027","spart1":"","spart2":"","sparts":[" प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।"," अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥27॥"]},{"chaptno":"03","slokano":"028","spart1":"","spart2":"","sparts":[" तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।"," गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥28॥"]},{"chaptno":"03","slokano":"029","spart1":"","spart2":"","sparts":[" प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।"," तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्॥29॥"]},{"chaptno":"03","slokano":"030","spart1":"","spart2":"","sparts":[" मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।"," निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥30॥"]},{"chaptno":"03","slokano":"031","spart1":"","spart2":"","sparts":[" ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।"," श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥31॥"]},{"chaptno":"03","slokano":"032","spart1":"","spart2":"","sparts":[" ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।"," सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥32॥"]},{"chaptno":"03","slokano":"033","spart1":"","spart2":"","sparts":[" सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।"," प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥33॥"]},{"chaptno":"03","slokano":"034","spart1":"","spart2":"","sparts":[" इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।"," तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ॥34॥"]},{"chaptno":"03","slokano":"035","spart1":"","spart2":"","sparts":[" श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।"," स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥35॥"]},{"chaptno":"03","slokano":"036","spart1":"","spart2":"","sparts":[" अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।"," अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥36॥"]},{"chaptno":"03","slokano":"037","spart1":"","spart2":"","sparts":[" काम एष क्रोध एष रजोगुणसमुद्भवः।"," महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥37॥"]},{"chaptno":"03","slokano":"038","spart1":"","spart2":"","sparts":[" धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च।"," यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥38॥"]},{"chaptno":"03","slokano":"039","spart1":"","spart2":"","sparts":[" आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।"," कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥39॥"]},{"chaptno":"03","slokano":"040","spart1":"","spart2":"","sparts":[" इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।"," एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥40॥"]},{"chaptno":"03","slokano":"041","spart1":"","spart2":"","sparts":[" तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।"," पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥41॥"]},{"chaptno":"03","slokano":"042","spart1":"","spart2":"","sparts":[" इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।"," मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥42॥"]},{"chaptno":"03","slokano":"043","spart1":"","spart2":"","sparts":[" एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।"," जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥43॥"]},{"chaptno":"04","slokano":"001","spart1":"","spart2":"","sparts":[" इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।"," विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥1॥"]},{"chaptno":"04","slokano":"002","spart1":"","spart2":"","sparts":[" एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।"," स कालेनेह महता योगो नष्टः परन्तप॥2॥"]},{"chaptno":"04","slokano":"003","spart1":"","spart2":"","sparts":[" स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।"," भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥3॥"]},{"chaptno":"04","slokano":"004","spart1":"","spart2":"","sparts":[" अपरं भवतो जन्म परं जन्म विवस्वतः।"," कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥4॥"]},{"chaptno":"04","slokano":"005","spart1":"","spart2":"","sparts":[" बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।"," तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥5॥"]},{"chaptno":"04","slokano":"006","spart1":"","spart2":"","sparts":[" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।"," प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया॥6॥"]},{"chaptno":"04","slokano":"007","spart1":"","spart2":"","sparts":[" यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।"," अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥7॥"]},{"chaptno":"04","slokano":"008","spart1":"","spart2":"","sparts":[" परित्राणाय साधूनां विनाशाय च दुष्कृताम्।"," धर्मसंस्थापनार्थाय संभवामि युगे युगे॥8॥"]},{"chaptno":"04","slokano":"009","spart1":"","spart2":"","sparts":[" जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।"," त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥9॥"]},{"chaptno":"04","slokano":"010","spart1":"","spart2":"","sparts":[" वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।"," बहवो ज्ञानतपसा पूता मद्भावमागताः॥10॥"]},{"chaptno":"04","slokano":"011","spart1":"","spart2":"","sparts":[" ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।"," मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥11॥"]},{"chaptno":"04","slokano":"012","spart1":"","spart2":"","sparts":[" काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।"," क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥12॥"]},{"chaptno":"04","slokano":"013","spart1":"","spart2":"","sparts":[" चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।"," तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥13॥"]},{"chaptno":"04","slokano":"014","spart1":"","spart2":"","sparts":[" न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।"," इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥"]},{"chaptno":"04","slokano":"015","spart1":"","spart2":"","sparts":[" एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।"," कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥15॥"]},{"chaptno":"04","slokano":"016","spart1":"","spart2":"","sparts":[" किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।"," तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥16॥"]},{"chaptno":"04","slokano":"017","spart1":"","spart2":"","sparts":[" कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।"," अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥17॥"]},{"chaptno":"04","slokano":"018","spart1":"","spart2":"","sparts":[" कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।"," स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥18॥"]},{"chaptno":"04","slokano":"019","spart1":"","spart2":"","sparts":[" यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।"," ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥19॥"]},{"chaptno":"04","slokano":"020","spart1":"","spart2":"","sparts":[" त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।"," कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः॥20॥"]},{"chaptno":"04","slokano":"021","spart1":"","spart2":"","sparts":[" निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।"," शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥21॥"]},{"chaptno":"04","slokano":"022","spart1":"","spart2":"","sparts":[" यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।"," समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते॥22॥"]},{"chaptno":"04","slokano":"023","spart1":"","spart2":"","sparts":[" गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।"," यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥23॥"]},{"chaptno":"04","slokano":"024","spart1":"","spart2":"","sparts":[" ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।"," ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना॥24॥"]},{"chaptno":"04","slokano":"025","spart1":"","spart2":"","sparts":[" दैवमेवापरे यज्ञं योगिनः पर्युपासते।"," ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥25॥"]},{"chaptno":"04","slokano":"026","spart1":"","spart2":"","sparts":[" श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।"," शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति॥26॥"]},{"chaptno":"04","slokano":"027","spart1":"","spart2":"","sparts":[" सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।"," आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥27॥"]},{"chaptno":"04","slokano":"028","spart1":"","spart2":"","sparts":[" द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे।"," स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥28॥"]},{"chaptno":"04","slokano":"029","spart1":"","spart2":"","sparts":[" अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे।"," प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥29॥"]},{"chaptno":"04","slokano":"030","spart1":"","spart2":"","sparts":[" अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।"," सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥30॥"]},{"chaptno":"04","slokano":"031","spart1":"","spart2":"","sparts":[" यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।"," नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥31॥"]},{"chaptno":"04","slokano":"032","spart1":"","spart2":"","sparts":[" एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।"," कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥32॥"]},{"chaptno":"04","slokano":"033","spart1":"","spart2":"","sparts":[" श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।"," सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥33॥"]},{"chaptno":"04","slokano":"034","spart1":"","spart2":"","sparts":[" तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।"," उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥34॥"]},{"chaptno":"04","slokano":"035","spart1":"","spart2":"","sparts":[" यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।"," येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥35॥"]},{"chaptno":"04","slokano":"036","spart1":"","spart2":"","sparts":[" अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।"," सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥36॥"]},{"chaptno":"04","slokano":"037","spart1":"","spart2":"","sparts":[" यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन।"," ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा॥37॥"]},{"chaptno":"04","slokano":"038","spart1":"","spart2":"","sparts":[" न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।"," तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥38॥"]},{"chaptno":"04","slokano":"039","spart1":"","spart2":"","sparts":[" श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।"," ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥39॥"]},{"chaptno":"04","slokano":"040","spart1":"","spart2":"","sparts":[" अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।"," नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥40॥"]},{"chaptno":"04","slokano":"041","spart1":"","spart2":"","sparts":[" योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्।"," आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥41॥"]},{"chaptno":"04","slokano":"042","spart1":"","spart2":"","sparts":[" तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः।"," छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥42॥"]},{"chaptno":"05","slokano":"001","spart1":"","spart2":"","sparts":[" संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।"," यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥1॥"]},{"chaptno":"05","slokano":"002","spart1":"","spart2":"","sparts":[" संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।"," तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते॥2॥"]},{"chaptno":"05","slokano":"003","spart1":"","spart2":"","sparts":[" ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।"," निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥3॥"]},{"chaptno":"05","slokano":"004","spart1":"","spart2":"","sparts":[" सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।"," एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥4॥"]},{"chaptno":"05","slokano":"005","spart1":"","spart2":"","sparts":[" यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।"," एकं सांख्यं च योगं च यः पश्यति स पश्यति॥5॥"]},{"chaptno":"05","slokano":"006","spart1":"","spart2":"","sparts":[" संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।"," योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥6॥"]},{"chaptno":"05","slokano":"007","spart1":"","spart2":"","sparts":[" योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।"," सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥7॥"]},{"chaptno":"05","slokano":"008_009","spart1":"","spart2":"","sparts":[" नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्।"," पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्॥8॥"," प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।"," इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥9॥"]},{"chaptno":"05","slokano":"010","spart1":"","spart2":"","sparts":[" ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।"," लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥10॥"]},{"chaptno":"05","slokano":"011","spart1":"","spart2":"","sparts":[" कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।"," योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥11॥"]},{"chaptno":"05","slokano":"012","spart1":"","spart2":"","sparts":[" युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।"," अयुक्तः कामकारेण फले सक्तो निबध्यते॥12॥"]},{"chaptno":"05","slokano":"013","spart1":"","spart2":"","sparts":[" सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।"," नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥13॥"]},{"chaptno":"05","slokano":"014","spart1":"","spart2":"","sparts":[" न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।"," न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥14॥"]},{"chaptno":"05","slokano":"015","spart1":"","spart2":"","sparts":[" नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।"," अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥15॥"]},{"chaptno":"05","slokano":"016","spart1":"","spart2":"","sparts":[" ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।"," तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥16॥"]},{"chaptno":"05","slokano":"017","spart1":"","spart2":"","sparts":[" तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।"," गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥17॥"]},{"chaptno":"05","slokano":"018","spart1":"","spart2":"","sparts":[" विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि।"," शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥18॥"]},{"chaptno":"05","slokano":"019","spart1":"","spart2":"","sparts":[" इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।"," निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः॥19॥"]},{"chaptno":"05","slokano":"020","spart1":"","spart2":"","sparts":[" न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।"," स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥20॥"]},{"chaptno":"05","slokano":"021","spart1":"","spart2":"","sparts":[" बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्।"," स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥21॥"]},{"chaptno":"05","slokano":"022","spart1":"","spart2":"","sparts":[" ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।"," आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥22॥"]},{"chaptno":"05","slokano":"023","spart1":"","spart2":"","sparts":[" शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्।"," कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥23॥"]},{"chaptno":"05","slokano":"024","spart1":"","spart2":"","sparts":[" योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः।"," स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥24॥"]},{"chaptno":"05","slokano":"025","spart1":"","spart2":"","sparts":[" लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।"," छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥25॥"]},{"chaptno":"05","slokano":"026","spart1":"","spart2":"","sparts":[" कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।"," अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥26॥"]},{"chaptno":"05","slokano":"027_028","spart1":"","spart2":"","sparts":[" स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।"," प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥27॥","\nयतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।"," विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥28॥"]},{"chaptno":"05","slokano":"029","spart1":"","spart2":"","sparts":[" भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।"," सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥29॥"]},{"chaptno":"06","slokano":"001","spart1":"","spart2":"","sparts":[" अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।"," स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥1॥"]},{"chaptno":"06","slokano":"002","spart1":"","spart2":"","sparts":[" यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।"," न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥2॥"]},{"chaptno":"06","slokano":"003","spart1":"","spart2":"","sparts":[" आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।"," योगारूढस्य तस्यैव शमः कारणमुच्यते॥3॥"]},{"chaptno":"06","slokano":"004","spart1":"","spart2":"","sparts":[" यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।"," सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥4॥"]},{"chaptno":"06","slokano":"005","spart1":"","spart2":"","sparts":[" उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।"," आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥5॥"]},{"chaptno":"06","slokano":"006","spart1":"","spart2":"","sparts":[" बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।"," अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥6॥"]},{"chaptno":"06","slokano":"007","spart1":"","spart2":"","sparts":[" जितात्मनः प्रशान्तस्य परमात्मा समाहितः।"," शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥7॥"]},{"chaptno":"06","slokano":"008","spart1":"","spart2":"","sparts":[" ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।"," युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥8॥"]},{"chaptno":"06","slokano":"009","spart1":"","spart2":"","sparts":[" सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।"," साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥9॥"]},{"chaptno":"06","slokano":"010","spart1":"","spart2":"","sparts":[" योगी युञ्जीत सततमात्मानं रहसि स्थितः।"," एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥10॥"]},{"chaptno":"06","slokano":"011_012","spart1":"","spart2":"","sparts":[" शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।"," नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥11॥","\nतत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।"," उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये॥12॥"]},{"chaptno":"06","slokano":"013_014","spart1":"","spart2":"","sparts":[" समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।"," संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥13॥","\nप्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः।"," मनः संयम्य मच्चित्तो युक्त आसीत मत्परः॥14॥"]},{"chaptno":"06","slokano":"015","spart1":"","spart2":"","sparts":[" युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः।"," शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥15॥"]},{"chaptno":"06","slokano":"016","spart1":"","spart2":"","sparts":[" नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।"," न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥16॥"]},{"chaptno":"06","slokano":"017","spart1":"","spart2":"","sparts":[" युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।"," युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥17॥"]},{"chaptno":"06","slokano":"018","spart1":"","spart2":"","sparts":[" यदा विनियतं चित्तमात्मन्येवावतिष्ठते।"," निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥18॥"]},{"chaptno":"06","slokano":"019","spart1":"","spart2":"","sparts":[" यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।"," योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥19॥"]},{"chaptno":"06","slokano":"020_021_022_023","spart1":"","spart2":"","sparts":[" यत्रोपरमते चित्तं निरुद्धं योगसेवया।"," यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥20॥","\nसुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्।"," वेत्ति यत्र न चैवायं स्थितश्चलति तत्वतः॥21॥"," यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।"," यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते॥22॥"," तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम्।"," स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥ 23॥"]},{"chaptno":"06","slokano":"024_025","spart1":"","spart2":"","sparts":[" सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः।"," मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥24॥","\nशनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया।"," आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥25॥"]},{"chaptno":"06","slokano":"026","spart1":"","spart2":"","sparts":[" यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।"," ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥26॥"]},{"chaptno":"06","slokano":"027","spart1":"","spart2":"","sparts":[" प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।"," उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥27॥"]},{"chaptno":"06","slokano":"028","spart1":"","spart2":"","sparts":[" युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः।"," सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥28॥"]},{"chaptno":"06","slokano":"029","spart1":"","spart2":"","sparts":[" सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।"," ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥29॥"]},{"chaptno":"06","slokano":"030","spart1":"","spart2":"","sparts":[" यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।"," तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥30॥"]},{"chaptno":"06","slokano":"031","spart1":"","spart2":"","sparts":[" सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।"," सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥31॥"]},{"chaptno":"06","slokano":"032","spart1":"","spart2":"","sparts":[" आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।"," सुखं वा यदि वा दुःखं सः योगी परमो मतः॥32॥"]},{"chaptno":"06","slokano":"033","spart1":"","spart2":"","sparts":[" योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।"," एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥33॥"]},{"chaptno":"06","slokano":"034","spart1":"","spart2":"","sparts":[" चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।"," तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥34॥"]},{"chaptno":"06","slokano":"035","spart1":"","spart2":"","sparts":[" असंशयं महाबाहो मनो दुर्निग्रहं चलं।"," अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥35॥"]},{"chaptno":"06","slokano":"036","spart1":"","spart2":"","sparts":[" असंयतात्मना योगो दुष्प्राप इति मे मतिः।"," वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥36॥"]},{"chaptno":"06","slokano":"037","spart1":"","spart2":"","sparts":[" अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।"," अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥37॥"]},{"chaptno":"06","slokano":"038","spart1":"","spart2":"","sparts":[" कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।"," अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥38॥"]},{"chaptno":"06","slokano":"039","spart1":"","spart2":"","sparts":[" एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।"," त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते॥39॥"]},{"chaptno":"06","slokano":"040","spart1":"","spart2":"","sparts":[" पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।"," नहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥40॥"]},{"chaptno":"06","slokano":"041","spart1":"","spart2":"","sparts":[" प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।"," शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥41॥"]},{"chaptno":"06","slokano":"042","spart1":"","spart2":"","sparts":[" अथवा योगिनामेव कुले भवति धीमताम्।"," एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥42॥"]},{"chaptno":"06","slokano":"043","spart1":"","spart2":"","sparts":[" तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्।"," यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥43॥"]},{"chaptno":"06","slokano":"044","spart1":"","spart2":"","sparts":[" पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः।"," जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥44॥"]},{"chaptno":"06","slokano":"045","spart1":"","spart2":"","sparts":[" प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः।"," अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥45॥"]},{"chaptno":"06","slokano":"046","spart1":"","spart2":"","sparts":[" तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।"," कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥46॥"]},{"chaptno":"06","slokano":"047","spart1":"","spart2":"","sparts":[" योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।"," श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥47॥"]},{"chaptno":"07","slokano":"001","spart1":"","spart2":"","sparts":[" मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।"," असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥1॥"]},{"chaptno":"07","slokano":"002","spart1":"","spart2":"","sparts":[" ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।"," यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥2॥"]},{"chaptno":"07","slokano":"003","spart1":"","spart2":"","sparts":[" मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।"," यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥3॥"]},{"chaptno":"07","slokano":"004","spart1":"","spart2":"","sparts":[" भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।"," अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥4॥"]},{"chaptno":"07","slokano":"005","spart1":"","spart2":"","sparts":[" अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।"," जीवभूतां महाबाहो ययेदं धार्यते जगत्॥5॥"]},{"chaptno":"07","slokano":"006","spart1":"","spart2":"","sparts":[" एतद्योनीनि भूतानि सर्वाणीत्युपधारय।"," अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥6॥"]},{"chaptno":"07","slokano":"007","spart1":"","spart2":"","sparts":[" मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।"," मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥7॥"]},{"chaptno":"07","slokano":"008","spart1":"","spart2":"","sparts":[" रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।"," प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥8॥"]},{"chaptno":"07","slokano":"009","spart1":"","spart2":"","sparts":[" पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।"," जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥9॥"]},{"chaptno":"07","slokano":"010","spart1":"","spart2":"","sparts":[" बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।"," बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥10॥"]},{"chaptno":"07","slokano":"011","spart1":"","spart2":"","sparts":[" बलं बलवतां चाहं कामरागविवर्जितम्।"," धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥11॥"]},{"chaptno":"07","slokano":"012","spart1":"","spart2":"","sparts":[" ये चैव सात्त्विका भावा राजसास्तामसाश्च ये।"," मत्त एवेति तान्विद्धि नत्वहं तेषु ते मयि॥12॥"]},{"chaptno":"07","slokano":"013","spart1":"","spart2":"","sparts":[" त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।"," मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥13॥"]},{"chaptno":"07","slokano":"014","spart1":"","spart2":"","sparts":[" दैवी ह्येषा गुणमयी मम माया दुरत्यया।"," मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥14॥"]},{"chaptno":"07","slokano":"015","spart1":"","spart2":"","sparts":[" न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।"," माययापहृतज्ञाना आसुरं भावमाश्रिताः॥15॥"]},{"chaptno":"07","slokano":"016","spart1":"","spart2":"","sparts":[" चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।"," आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥16॥"]},{"chaptno":"07","slokano":"017","spart1":"","spart2":"","sparts":[" तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।"," प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥17॥"]},{"chaptno":"07","slokano":"018","spart1":"","spart2":"","sparts":[" उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।"," आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥18॥"]},{"chaptno":"07","slokano":"019","spart1":"","spart2":"","sparts":[" बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।"," वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥19॥"]},{"chaptno":"07","slokano":"020","spart1":"","spart2":"","sparts":[" कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।"," तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥20॥"]},{"chaptno":"07","slokano":"021","spart1":"","spart2":"","sparts":[" यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।"," तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥21॥"]},{"chaptno":"07","slokano":"022","spart1":"","spart2":"","sparts":[" स तया श्रद्धया युक्तस्तस्याराधनमीहते।"," लभते च ततः कामान्मयैव विहितान् हि तान्॥22॥"]},{"chaptno":"07","slokano":"023","spart1":"","spart2":"","sparts":[" अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।"," देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥23॥"]},{"chaptno":"07","slokano":"024","spart1":"","spart2":"","sparts":[" अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।"," परं भावमजानन्तो ममाव्ययमनुत्तमम्॥24॥"]},{"chaptno":"07","slokano":"025","spart1":"","spart2":"","sparts":[" नाहं प्रकाशः सर्वस्य योगमायासमावृतः।"," मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥25॥"]},{"chaptno":"07","slokano":"026","spart1":"","spart2":"","sparts":[" वेदाहं समतीतानि वर्तमानानि चार्जुन।"," भविष्याणि च भूतानि मां तु वेद न कश्चन॥26॥"]},{"chaptno":"07","slokano":"027","spart1":"","spart2":"","sparts":[" इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।"," सर्वभूतानि संमोहं सर्गे यान्ति परन्तप॥27॥"]},{"chaptno":"07","slokano":"028","spart1":"","spart2":"","sparts":[" येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।"," ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥28॥"]},{"chaptno":"07","slokano":"029","spart1":"","spart2":"","sparts":[" जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।"," ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥29॥"]},{"chaptno":"07","slokano":"030","spart1":"","spart2":"","sparts":[" साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।"," प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥"]},{"chaptno":"08","slokano":"001","spart1":"","spart2":"","sparts":[" किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।"," अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥1॥"]},{"chaptno":"08","slokano":"002","spart1":"","spart2":"","sparts":[" अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।"," प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥2॥"]},{"chaptno":"08","slokano":"003","spart1":"","spart2":"","sparts":[" अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।"," भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥3॥"]},{"chaptno":"08","slokano":"004","spart1":"","spart2":"","sparts":[" अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।"," अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥4॥"]},{"chaptno":"08","slokano":"005","spart1":"","spart2":"","sparts":[" अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।"," यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥5॥"]},{"chaptno":"08","slokano":"006","spart1":"","spart2":"","sparts":[" यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।"," तं तमेवैति कौन्तेय सदा तद्भावभावितः॥6॥"]},{"chaptno":"08","slokano":"007","spart1":"","spart2":"","sparts":[" तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।"," मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्॥7॥"]},{"chaptno":"08","slokano":"008","spart1":"","spart2":"","sparts":[" अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।"," परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥8॥"]},{"chaptno":"08","slokano":"009_010","spart1":"","spart2":"","sparts":[" कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः।"," सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्॥9॥","\nप्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव।"," भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥10॥"]},{"chaptno":"08","slokano":"011","spart1":"","spart2":"","sparts":[" यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।"," यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये॥11॥"]},{"chaptno":"08","slokano":"012_013","spart1":"","spart2":"","sparts":[" सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।"," मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥12॥","\nओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।"," यः प्रयाति त्यजन्देहं स याति परमां गतिम्॥13॥"]},{"chaptno":"08","slokano":"014","spart1":"","spart2":"","sparts":[" अनन्यचेताः सततं यो मां स्मरति नित्यशः।"," तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥14॥"]},{"chaptno":"08","slokano":"015","spart1":"","spart2":"","sparts":[" मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।"," नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥15॥"]},{"chaptno":"08","slokano":"016","spart1":"","spart2":"","sparts":[" आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।"," मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥16॥"]},{"chaptno":"08","slokano":"017","spart1":"","spart2":"","sparts":[" सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।"," रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥17॥"]},{"chaptno":"08","slokano":"018","spart1":"","spart2":"","sparts":[" अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।"," रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥18॥"]},{"chaptno":"08","slokano":"019","spart1":"","spart2":"","sparts":[" भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।"," रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥19॥"]},{"chaptno":"08","slokano":"020","spart1":"","spart2":"","sparts":[" परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।"," यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥20॥"]},{"chaptno":"08","slokano":"021","spart1":"","spart2":"","sparts":[" अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।"," यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥21॥"]},{"chaptno":"08","slokano":"022","spart1":"","spart2":"","sparts":[" पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।"," यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22॥"]},{"chaptno":"08","slokano":"023","spart1":"","spart2":"","sparts":[" यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।"," प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥23॥"]},{"chaptno":"08","slokano":"024","spart1":"","spart2":"","sparts":[" अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।"," तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥24॥"]},{"chaptno":"08","slokano":"025","spart1":"","spart2":"","sparts":[" धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।"," तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥25॥"]},{"chaptno":"08","slokano":"026","spart1":"","spart2":"","sparts":[" शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।"," एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः॥26॥"]},{"chaptno":"08","slokano":"027","spart1":"","spart2":"","sparts":[" नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।"," तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥27॥"]},{"chaptno":"08","slokano":"028","spart1":"","spart2":"","sparts":[" वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्।"," अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥28॥"]},{"chaptno":"09","slokano":"001","spart1":"","spart2":"","sparts":[" इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।"," ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥1॥"]},{"chaptno":"09","slokano":"002","spart1":"","spart2":"","sparts":[" राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।"," प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥2॥"]},{"chaptno":"09","slokano":"003","spart1":"","spart2":"","sparts":[" अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।"," अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥3॥"]},{"chaptno":"09","slokano":"004","spart1":"","spart2":"","sparts":[" मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।"," मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥4॥"]},{"chaptno":"09","slokano":"005","spart1":"","spart2":"","sparts":[" न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।"," भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥5॥"]},{"chaptno":"09","slokano":"006","spart1":"","spart2":"","sparts":[" यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।"," तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥6॥"]},{"chaptno":"09","slokano":"007","spart1":"","spart2":"","sparts":[" सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।"," कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥7॥"]},{"chaptno":"09","slokano":"008","spart1":"","spart2":"","sparts":[" प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।"," भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥8॥"]},{"chaptno":"09","slokano":"009","spart1":"","spart2":"","sparts":[" न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।"," उदासीनवदासीनमसक्तं तेषु कर्मसु॥9॥"]},{"chaptno":"09","slokano":"010","spart1":"","spart2":"","sparts":[" मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्।"," हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते॥10॥"]},{"chaptno":"09","slokano":"011","spart1":"","spart2":"","sparts":[" अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।"," परं भावमजानन्तो मम भूतमहेश्वरम्॥11॥"]},{"chaptno":"09","slokano":"012","spart1":"","spart2":"","sparts":[" मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।"," राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12॥"]},{"chaptno":"09","slokano":"013","spart1":"","spart2":"","sparts":[" महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।"," भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13॥"]},{"chaptno":"09","slokano":"014","spart1":"","spart2":"","sparts":[" सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।"," नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥14॥"]},{"chaptno":"09","slokano":"015","spart1":"","spart2":"","sparts":[" ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।"," एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥15॥"]},{"chaptno":"09","slokano":"016","spart1":"","spart2":"","sparts":[" अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।"," मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्॥16॥"]},{"chaptno":"09","slokano":"017","spart1":"","spart2":"","sparts":[" पिताऽहमस्य जगतो माता धाता पितामहः।"," वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च॥17॥"]},{"chaptno":"09","slokano":"018","spart1":"","spart2":"","sparts":[" गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।"," प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥18॥"]},{"chaptno":"09","slokano":"019","spart1":"","spart2":"","sparts":[" तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।"," अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥19॥"]},{"chaptno":"09","slokano":"020","spart1":"","spart2":"","sparts":[" त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।"," ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्॥20॥"]},{"chaptno":"09","slokano":"021","spart1":"","spart2":"","sparts":[" ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति।"," एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥21॥"]},{"chaptno":"09","slokano":"022","spart1":"","spart2":"","sparts":[" अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।"," तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22॥"]},{"chaptno":"09","slokano":"023","spart1":"","spart2":"","sparts":[" येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः।"," तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23॥"]},{"chaptno":"09","slokano":"024","spart1":"","spart2":"","sparts":[" अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।"," न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24॥"]},{"chaptno":"09","slokano":"025","spart1":"","spart2":"","sparts":[" यान्ति देवव्रता देवान् पितृ़न्यान्ति पितृव्रताः।"," भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25॥"]},{"chaptno":"09","slokano":"026","spart1":"","spart2":"","sparts":[" पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।"," तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥26॥"]},{"chaptno":"09","slokano":"027","spart1":"","spart2":"","sparts":[" यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।"," यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥27॥"]},{"chaptno":"09","slokano":"028","spart1":"","spart2":"","sparts":[" शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।"," संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥28॥"]},{"chaptno":"09","slokano":"029","spart1":"","spart2":"","sparts":[" समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।"," ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥29॥"]},{"chaptno":"09","slokano":"030","spart1":"","spart2":"","sparts":[" अपि चेत्सुदुराचारो भजते मामनन्यभाक्।"," साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥30॥"]},{"chaptno":"09","slokano":"031","spart1":"","spart2":"","sparts":[" क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।"," कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥31॥"]},{"chaptno":"09","slokano":"032_033","spart1":"","spart2":"","sparts":[" मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।"," स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥32॥","\nकिं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा।"," अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥"]},{"chaptno":"09","slokano":"034","spart1":"","spart2":"","sparts":[" मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।"," मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥34॥"]},{"chaptno":"10","slokano":"001","spart1":"","spart2":"","sparts":[" भूय एव महाबाहो श्रृणु मे परमं वचः।"," यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1॥"]},{"chaptno":"10","slokano":"002","spart1":"","spart2":"","sparts":[" न मे विदुः सुरगणाः प्रभवं न महर्षयः।"," अहमादिर्हि देवानां महर्षीणां च सर्वशः॥2॥"]},{"chaptno":"10","slokano":"003","spart1":"","spart2":"","sparts":[" यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।"," असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥3॥"]},{"chaptno":"10","slokano":"006","spart1":"","spart2":"","sparts":[" महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।"," मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥6॥"]},{"chaptno":"10","slokano":"007","spart1":"","spart2":"","sparts":[" एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।"," सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥7॥"]},{"chaptno":"10","slokano":"008","spart1":"","spart2":"","sparts":[" अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।"," इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥8॥"]},{"chaptno":"10","slokano":"009","spart1":"","spart2":"","sparts":[" मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्।"," कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥9॥"]},{"chaptno":"10","slokano":"010","spart1":"","spart2":"","sparts":[" तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।"," ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥10॥"]},{"chaptno":"10","slokano":"011","spart1":"","spart2":"","sparts":[" तेषामेवानुकम्पार्थमहमज्ञानजं तमः।"," नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥11॥"]},{"chaptno":"10","slokano":"014","spart1":"","spart2":"","sparts":[" सर्वमेतदृतं मन्ये यन्मां वदसि केशव।"," न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥14॥"]},{"chaptno":"10","slokano":"015","spart1":"","spart2":"","sparts":[" स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम।"," भूतभावन भूतेश देवदेव जगत्पते॥15॥"]},{"chaptno":"10","slokano":"016","spart1":"","spart2":"","sparts":[" वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।"," याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥16॥"]},{"chaptno":"10","slokano":"017","spart1":"","spart2":"","sparts":[" कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।"," केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया॥17॥"]},{"chaptno":"10","slokano":"018","spart1":"","spart2":"","sparts":[" विस्तरेणात्मनो योगं विभूतिं च जनार्दन।"," भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्॥18॥"]},{"chaptno":"10","slokano":"019","spart1":"","spart2":"","sparts":[" हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।"," प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥19॥"]},{"chaptno":"10","slokano":"020","spart1":"","spart2":"","sparts":[" अहमात्मा गुडाकेश सर्वभूताशयस्थितः।"," अहमादिश्च मध्यं च भूतानामन्त एव च॥20॥"]},{"chaptno":"10","slokano":"021","spart1":"","spart2":"","sparts":[" आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।"," मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥21॥"]},{"chaptno":"10","slokano":"022","spart1":"","spart2":"","sparts":[" वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।"," इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥22॥"]},{"chaptno":"10","slokano":"023","spart1":"","spart2":"","sparts":[" रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।"," वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥23॥"]},{"chaptno":"10","slokano":"024","spart1":"","spart2":"","sparts":[" पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।"," सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥24॥"]},{"chaptno":"10","slokano":"025","spart1":"","spart2":"","sparts":[" महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।"," यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥25॥"]},{"chaptno":"10","slokano":"026","spart1":"","spart2":"","sparts":[" अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।"," गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26॥"]},{"chaptno":"10","slokano":"027","spart1":"","spart2":"","sparts":[" उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।"," ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥27॥"]},{"chaptno":"10","slokano":"028","spart1":"","spart2":"","sparts":[" आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।"," प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥28॥"]},{"chaptno":"10","slokano":"029","spart1":"","spart2":"","sparts":[" अनन्तश्चास्मि नागानां वरुणो यादसामहम्।"," पितृ़णामर्यमा चास्मि यमः संयमतामहम्॥29॥"]},{"chaptno":"10","slokano":"030","spart1":"","spart2":"","sparts":[" प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।"," मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥30॥"]},{"chaptno":"10","slokano":"031","spart1":"","spart2":"","sparts":[" पवनः पवतामस्मि रामः शस्त्रभृतामहम्।"," झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥31॥"]},{"chaptno":"10","slokano":"032","spart1":"","spart2":"","sparts":[" सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।"," अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥32॥"]},{"chaptno":"10","slokano":"033","spart1":"","spart2":"","sparts":[" अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।"," अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥33॥"]},{"chaptno":"10","slokano":"034","spart1":"","spart2":"","sparts":[" मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।"," कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34॥"]},{"chaptno":"10","slokano":"035","spart1":"","spart2":"","sparts":[" बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।"," मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥35॥"]},{"chaptno":"10","slokano":"036","spart1":"","spart2":"","sparts":[" द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।"," जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥36॥"]},{"chaptno":"10","slokano":"037","spart1":"","spart2":"","sparts":[" वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।"," मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37॥"]},{"chaptno":"10","slokano":"038","spart1":"","spart2":"","sparts":[" दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।"," मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥38॥"]},{"chaptno":"10","slokano":"039","spart1":"","spart2":"","sparts":[" यच्चापि सर्वभूतानां बीजं तदहमर्जुन।"," न तदस्ति विना यत्स्यान्मया भूतं चराचरम्॥39॥"]},{"chaptno":"10","slokano":"040","spart1":"","spart2":"","sparts":[" नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप।"," एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥40॥"]},{"chaptno":"10","slokano":"041","spart1":"","spart2":"","sparts":[" यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।"," तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्॥41॥"]},{"chaptno":"10","slokano":"042","spart1":"","spart2":"","sparts":[" अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।"," विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्॥42॥"]},{"chaptno":"10","slokano":"12-13","spart1":"","spart2":"","sparts":["परं ब्रह्म परं धाम पवित्रं परमं भवान्।","पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥12॥","आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।","असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13॥"]},{"chaptno":"10","slokano":"4-5","spart1":"","spart2":"","sparts":["बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः।","सुखं दुःखं भवोभावो भयं चाभयमेव च॥4॥","अहिंसा समता तुष्टिस्तपो दानं यशोयशः।","भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥5॥"]},{"chaptno":"11","slokano":"001","spart1":"","spart2":"","sparts":["मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।","यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥1॥"]},{"chaptno":"11","slokano":"002","spart1":"","spart2":"","sparts":["भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।","त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥2॥"]},{"chaptno":"11","slokano":"003","spart1":"","spart2":"","sparts":["एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।","द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥3॥"]},{"chaptno":"11","slokano":"004","spart1":"","spart2":"","sparts":["मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।","योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्॥4॥"]},{"chaptno":"11","slokano":"005","spart1":"","spart2":"","sparts":["पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।","नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥5॥"]},{"chaptno":"11","slokano":"006","spart1":"","spart2":"","sparts":["पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा।","बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत॥6॥"]},{"chaptno":"11","slokano":"007","spart1":"","spart2":"","sparts":["इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।","मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥7॥"]},{"chaptno":"11","slokano":"008","spart1":"","spart2":"","sparts":["न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।","दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥8॥"]},{"chaptno":"11","slokano":"009_010_011","spart1":"","spart2":"","sparts":["एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।","दर्शयामास पार्थाय परमं रूपमैश्वरम्॥9॥","\nअनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।"," अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥10॥"," दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।"," सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥11॥"]},{"chaptno":"11","slokano":"012","spart1":"","spart2":"","sparts":["दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।","यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥12॥"]},{"chaptno":"11","slokano":"013","spart1":"","spart2":"","sparts":["तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।","अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥13॥"]},{"chaptno":"11","slokano":"014","spart1":"","spart2":"","sparts":["ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।","प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥14॥"]},{"chaptno":"11","slokano":"015","spart1":"","spart2":"","sparts":["पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्।","ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्॥15॥"]},{"chaptno":"11","slokano":"016","spart1":"","spart2":"","sparts":["अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्।","नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥16॥"]},{"chaptno":"11","slokano":"017","spart1":"","spart2":"","sparts":["किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतोदीप्तिमन्तम्।","पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्॥17॥"]},{"chaptno":"11","slokano":"018","spart1":"","spart2":"","sparts":["त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्।","त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥18॥"]},{"chaptno":"11","slokano":"019","spart1":"","spart2":"","sparts":["अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।"," पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥19॥"]},{"chaptno":"11","slokano":"020","spart1":"","spart2":"","sparts":["द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः।","दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥20॥"]},{"chaptno":"11","slokano":"021","spart1":"","spart2":"","sparts":["अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।","स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥21॥"]},{"chaptno":"11","slokano":"022","spart1":"","spart2":"","sparts":["रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।","गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥22॥"]},{"chaptno":"11","slokano":"023","spart1":"","spart2":"","sparts":["रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्।","बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥23॥"]},{"chaptno":"11","slokano":"024","spart1":"","spart2":"","sparts":["नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्।","दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥24॥"]},{"chaptno":"11","slokano":"025","spart1":"","spart2":"","sparts":["दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि।","दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥25॥"]},{"chaptno":"11","slokano":"026_027","spart1":"","spart2":"","sparts":["अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः।","भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥26॥","\nवक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि।"," केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥27॥"]},{"chaptno":"11","slokano":"028","spart1":"","spart2":"","sparts":["यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।","तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥28॥"]},{"chaptno":"11","slokano":"029","spart1":"","spart2":"","sparts":["यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः।","तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः॥29॥"]},{"chaptno":"11","slokano":"030","spart1":"","spart2":"","sparts":["लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।","तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥30॥"]},{"chaptno":"11","slokano":"031","spart1":"","spart2":"","sparts":["आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद।","विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥31॥"]},{"chaptno":"11","slokano":"032","spart1":"","spart2":"","sparts":["कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः।","ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥32॥"]},{"chaptno":"11","slokano":"033","spart1":"","spart2":"","sparts":["तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।","मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥33॥"]},{"chaptno":"11","slokano":"034","spart1":"","spart2":"","sparts":["द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्।","मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥34॥"]},{"chaptno":"11","slokano":"035","spart1":"","spart2":"","sparts":["एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी।","नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥35॥"]},{"chaptno":"11","slokano":"036","spart1":"","spart2":"","sparts":["स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च।","रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥36॥"]},{"chaptno":"11","slokano":"037","spart1":"","spart2":"","sparts":["कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।","अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्॥37॥"]},{"chaptno":"11","slokano":"038","spart1":"","spart2":"","sparts":["त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।","वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥38॥"]},{"chaptno":"11","slokano":"039","spart1":"","spart2":"","sparts":["वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च।","नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते॥39॥"]},{"chaptno":"11","slokano":"040","spart1":"","spart2":"","sparts":["नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।","अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥40॥"]},{"chaptno":"11","slokano":"041_042","spart1":"","spart2":"","sparts":["सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति।"," अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि॥41॥","\nयच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु।"," एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्॥42॥"]},{"chaptno":"11","slokano":"043","spart1":"","spart2":"","sparts":["पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्।","न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥43॥"]},{"chaptno":"11","slokano":"044","spart1":"","spart2":"","sparts":["तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।","पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥44॥"]},{"chaptno":"11","slokano":"045","spart1":"","spart2":"","sparts":["अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे।","तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास॥45॥"]},{"chaptno":"11","slokano":"046","spart1":"","spart2":"","sparts":["किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव।","तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥46॥"]},{"chaptno":"11","slokano":"047","spart1":"","spart2":"","sparts":["मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्।","तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥47॥"]},{"chaptno":"11","slokano":"048","spart1":"","spart2":"","sparts":["न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः।","एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥48॥"]},{"chaptno":"11","slokano":"049","spart1":"","spart2":"","sparts":["मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।","व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥49॥"]},{"chaptno":"11","slokano":"050","spart1":"","spart2":"","sparts":["इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः।","आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥50॥"]},{"chaptno":"11","slokano":"051","spart1":"","spart2":"","sparts":["दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।","इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥51॥"]},{"chaptno":"11","slokano":"052","spart1":"","spart2":"","sparts":["सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।","देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥52॥"]},{"chaptno":"11","slokano":"053","spart1":"","spart2":"","sparts":["नाहं वेदैर्न तपसा न दानेन न चेज्यया।","शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥53॥"]},{"chaptno":"11","slokano":"054","spart1":"","spart2":"","sparts":["भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।","ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप॥54॥"]},{"chaptno":"11","slokano":"055","spart1":"","spart2":"","sparts":["मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।","निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥55॥"]},{"chaptno":"12","slokano":"001","spart1":"","spart2":"","sparts":[" एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।"," ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1॥"]},{"chaptno":"12","slokano":"002","spart1":"","spart2":"","sparts":[" मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।"," श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥2॥"]},{"chaptno":"12","slokano":"003_004","spart1":"","spart2":"","sparts":[" ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।"," सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥3॥","\nसन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।"," ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥4॥"]},{"chaptno":"12","slokano":"005","spart1":"","spart2":"","sparts":[" क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्।"," अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥5॥"]},{"chaptno":"12","slokano":"006_007","spart1":"","spart2":"","sparts":[" ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।"," अनन्येनैव योगेन मां ध्यायन्त उपासते॥6॥","\nतेषामहं समुद्धर्ता मृत्युसंसारसागरात्।"," भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्॥7॥"]},{"chaptno":"12","slokano":"008","spart1":"","spart2":"","sparts":[" मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।"," निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥8॥"]},{"chaptno":"12","slokano":"009","spart1":"","spart2":"","sparts":[" अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।"," अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥9॥"]},{"chaptno":"12","slokano":"010","spart1":"","spart2":"","sparts":[" अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।"," मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥10॥"]},{"chaptno":"12","slokano":"011","spart1":"","spart2":"","sparts":["spart1 : अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।"," सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥11॥"]},{"chaptno":"12","slokano":"012","spart1":"","spart2":"","sparts":[" श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।"," ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥12॥"]},{"chaptno":"12","slokano":"015","spart1":"","spart2":"","sparts":[" यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।"," हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥15॥"]},{"chaptno":"12","slokano":"016","spart1":"","spart2":"","sparts":[" अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।"," सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥16॥"]},{"chaptno":"12","slokano":"017","spart1":"","spart2":"","sparts":[" यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।"," शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥17॥"]},{"chaptno":"12","slokano":"018_019","spart1":"","spart2":"","sparts":["समः शत्रौ च मित्रे च तथा मानापमानयोः।"," शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥18॥","\nतुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित्।"," अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः॥19॥"]},{"chaptno":"12","slokano":"020","spart1":"","spart2":"","sparts":[" ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।"," श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥20॥"]},{"chaptno":"12","slokano":"13-14","spart1":"","spart2":"","sparts":["अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।","निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥13॥","सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।","मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥14॥"]},{"chaptno":"13","slokano":"001","spart1":"","spart2":"","sparts":[" इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।"," एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥1॥"]},{"chaptno":"13","slokano":"002","spart1":"","spart2":"","sparts":[" क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।"," क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥2॥"]},{"chaptno":"13","slokano":"003","spart1":"","spart2":"","sparts":[" तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्।"," स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु॥3॥"]},{"chaptno":"13","slokano":"004","spart1":"","spart2":"","sparts":[" ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्।"," ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥4॥"]},{"chaptno":"13","slokano":"005_006","spart1":"","spart2":"","sparts":["महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।"," इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥5॥"," \nइच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतनाधृतिः।"," एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥6॥"]},{"chaptno":"13","slokano":"007_008_009_010_011","spart1":"","spart2":"","sparts":["अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।"," आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥7॥","\nइन्द्रियार्थेषु वैराग्यमनहङ्कार एव च।"," जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥8॥","\nअसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।"," नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥9॥"," \nमयि चानन्ययोगेन भक्तिरव्यभिचारिणी।"," विविक्तदेशसेवित्वमरतिर्जनसंसदि॥10॥","\nअध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम्।"," एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥11॥"]},{"chaptno":"13","slokano":"012","spart1":"","spart2":"","sparts":["ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते।","अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥12॥"]},{"chaptno":"13","slokano":"013","spart1":"","spart2":"","sparts":["सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्।","सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥13॥"]},{"chaptno":"13","slokano":"014-015","spart1":"","spart2":"","sparts":["सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।"," असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥14॥","\nबहिरन्तश्च भूतानामचरं चरमेव च।"," सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥15॥",""]},{"chaptno":"13","slokano":"016","spart1":"","spart2":"","sparts":["अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।"," भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥16॥"]},{"chaptno":"13","slokano":"017","spart1":"","spart2":"","sparts":["ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।"," ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥17॥"]},{"chaptno":"13","slokano":"018","spart1":"","spart2":"","sparts":[" इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।"," मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥18॥"]},{"chaptno":"13","slokano":"019","spart1":"","spart2":"","sparts":["प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।"," विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥19॥"]},{"chaptno":"13","slokano":"020","spart1":"","spart2":"","sparts":["कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।"," पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥20॥"]},{"chaptno":"13","slokano":"021","spart1":"","spart2":"","sparts":["पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।"," कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥21॥"]},{"chaptno":"13","slokano":"022","spart1":"","spart2":"","sparts":["उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः।"," परमात्मेति चाप्युक्त्तो देहेऽस्मिन्पुरुषः परः॥22॥"]},{"chaptno":"13","slokano":"023","spart1":"","spart2":"","sparts":["य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।"," सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥23॥"]},{"chaptno":"13","slokano":"025","spart1":"","spart2":"","sparts":[" अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।"," तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥25॥"]},{"chaptno":"13","slokano":"026","spart1":"","spart2":"","sparts":["यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।"," क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ॥26॥"]},{"chaptno":"13","slokano":"027","spart1":"","spart2":"","sparts":["समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति"]},{"chaptno":"13","slokano":"028","spart1":"","spart2":"","sparts":["समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्।"," न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥28॥"]},{"chaptno":"13","slokano":"029","spart1":"","spart2":"","sparts":["प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।"," यः पश्यति तथात्मानमकर्तारं स पश्यति॥29॥"]},{"chaptno":"13","slokano":"030","spart1":"","spart2":"","sparts":["यदा भूतपृथग्भावमेकस्थमनुपश्यति।"," तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥30॥"]},{"chaptno":"13","slokano":"031","spart1":"","spart2":"","sparts":[" अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।"," शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥31॥"]},{"chaptno":"13","slokano":"033","spart1":"","spart2":"","sparts":[" यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।"," क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥33॥"]},{"chaptno":"13","slokano":"24","spart1":"","spart2":"","sparts":["ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।","अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥24॥"]},{"chaptno":"13","slokano":"32","spart1":"","spart2":"","sparts":["यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।","सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते॥32॥"]},{"chaptno":"13","slokano":"34","spart1":"","spart2":"","sparts":["क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।","भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥34॥"]},{"chaptno":"14","slokano":"001","spart1":"","spart2":"","sparts":[" परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।"," यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥1॥"]},{"chaptno":"14","slokano":"002","spart1":"","spart2":"","sparts":[" इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।"," सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥2॥"]},{"chaptno":"14","slokano":"003","spart1":"","spart2":"","sparts":[" मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।"," संभवः सर्वभूतानां ततो भवति भारत॥3॥"]},{"chaptno":"14","slokano":"004","spart1":"","spart2":"","sparts":[" सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।"," तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥4॥"]},{"chaptno":"14","slokano":"005","spart1":"","spart2":"","sparts":[" सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।"," निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥5॥"]},{"chaptno":"14","slokano":"006","spart1":"","spart2":"","sparts":[" तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्।"," सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥6॥"]},{"chaptno":"14","slokano":"007","spart1":"","spart2":"","sparts":[" रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।"," तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥7॥"]},{"chaptno":"14","slokano":"008","spart1":"","spart2":"","sparts":[" तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।"," प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥8॥"]},{"chaptno":"14","slokano":"009","spart1":"","spart2":"","sparts":[" सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।"," ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥9॥"]},{"chaptno":"14","slokano":"010","spart1":"","spart2":"","sparts":[" रजस्तमश्चाभिभूय सत्त्वं भवति भारत।"," रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥10॥"]},{"chaptno":"14","slokano":"011","spart1":"","spart2":"","sparts":[" सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते।"," ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत॥11॥"]},{"chaptno":"14","slokano":"012","spart1":"","spart2":"","sparts":[" लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।"," रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥12॥"]},{"chaptno":"14","slokano":"013","spart1":"","spart2":"","sparts":[" अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।"," तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥13॥"]},{"chaptno":"14","slokano":"014","spart1":"","spart2":"","sparts":[" यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्।"," तदोत्तमविदां लोकानमलान्प्रतिपद्यते॥14॥"]},{"chaptno":"14","slokano":"015","spart1":"","spart2":"","sparts":[" रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।"," तथा प्रलीनस्तमसि मूढयोनिषु जायते॥15॥"]},{"chaptno":"14","slokano":"016","spart1":"","spart2":"","sparts":[" कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।"," रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥16॥"]},{"chaptno":"14","slokano":"017","spart1":"","spart2":"","sparts":[" सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।"," प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥17॥"]},{"chaptno":"14","slokano":"018","spart1":"","spart2":"","sparts":[" ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।"," जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥18॥"]},{"chaptno":"14","slokano":"019","spart1":"","spart2":"","sparts":[" नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।"," गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥19॥"]},{"chaptno":"14","slokano":"020","spart1":"","spart2":"","sparts":[" गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्।"," जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥20॥"]},{"chaptno":"14","slokano":"021","spart1":"","spart2":"","sparts":[" कैर्लिंगैस्त्रीन्गुणानेतानतीतो भवति प्रभो।"," किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते॥21॥"]},{"chaptno":"14","slokano":"022","spart1":"","spart2":"","sparts":[" प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।"," न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥22॥"]},{"chaptno":"14","slokano":"023","spart1":"","spart2":"","sparts":[" उदासीनवदासीनो गुणैर्यो न विचाल्यते।"," गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥23॥"]},{"chaptno":"14","slokano":"024_025","spart1":"","spart2":"","sparts":[" समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः।"," तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥24॥","\nमानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।"," सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥25॥"]},{"chaptno":"14","slokano":"026","spart1":"","spart2":"","sparts":[" मां च योऽव्यभिचारेण भक्तियोगेन सेवते।"," स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते॥26॥"]},{"chaptno":"14","slokano":"027","spart1":"","spart2":"","sparts":[" ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च।"," शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥27॥"]},{"chaptno":"15","slokano":"001","spart1":"","spart2":"","sparts":[" ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।"," छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥1॥"]},{"chaptno":"15","slokano":"002","spart1":"","spart2":"","sparts":[" अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।"," अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके॥2॥"]},{"chaptno":"15","slokano":"003_004","spart1":"","spart2":"","sparts":["न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा।"," अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा॥3॥","\nततः पदं तत्परिमार्गितव्यम् यस्मिन्गता न निवर्तन्ति भूयः।"," तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी॥4॥"]},{"chaptno":"15","slokano":"005","spart1":"","spart2":"","sparts":[" निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।","द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्॥5॥"]},{"chaptno":"15","slokano":"006","spart1":"","spart2":"","sparts":[" न तद्भासयते सूर्यो न शशाङ्को न पावकः।"," यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥6॥"]},{"chaptno":"15","slokano":"007","spart1":"","spart2":"","sparts":[" ममैवांशो जीवलोके जीवभूतः सनातनः।"," मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥7॥"]},{"chaptno":"15","slokano":"008","spart1":"","spart2":"","sparts":[" शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।"," गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥8॥"]},{"chaptno":"15","slokano":"009","spart1":"","spart2":"","sparts":[" श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।"," अधिष्ठाय मनश्चायं विषयानुपसेवते॥9॥"]},{"chaptno":"15","slokano":"010","spart1":"","spart2":"","sparts":[" उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्।"," विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10॥"]},{"chaptno":"15","slokano":"011","spart1":"","spart2":"","sparts":[" यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।"," यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11॥"]},{"chaptno":"15","slokano":"012","spart1":"","spart2":"","sparts":[" यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।"," यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥12॥"]},{"chaptno":"15","slokano":"013","spart1":"","spart2":"","sparts":[" गामाविश्य च भूतानि धारयाम्यहमोजसा।"," पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥13॥"]},{"chaptno":"15","slokano":"014","spart1":"","spart2":"","sparts":[" अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।"," प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥14॥"]},{"chaptno":"15","slokano":"015","spart1":"","spart2":"","sparts":[" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च।"," वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्॥15॥"]},{"chaptno":"15","slokano":"016","spart1":"","spart2":"","sparts":[" द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।"," क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥16॥"]},{"chaptno":"15","slokano":"017","spart1":"","spart2":"","sparts":[" उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।"," यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥17॥"]},{"chaptno":"15","slokano":"018","spart1":"","spart2":"","sparts":[" यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।"," अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥18॥"]},{"chaptno":"15","slokano":"019","spart1":"","spart2":"","sparts":[" यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।"," स सर्वविद्भजति मां सर्वभावेन भारत॥19॥"]},{"chaptno":"15","slokano":"020","spart1":"","spart2":"","sparts":[" इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।"," एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥20॥"]},{"chaptno":"16","slokano":"001_002_003","spart1":"","spart2":"","sparts":["अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः।","दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥1॥","\nअहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।","दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥2॥","\nतेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।","भवन्ति सम्पदं दैवीमभिजातस्य भारत॥3॥"]},{"chaptno":"16","slokano":"004","spart1":"","spart2":"","sparts":[" दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।"," अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥4॥"]},{"chaptno":"16","slokano":"005","spart1":"","spart2":"","sparts":[" दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।"," मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥5॥"]},{"chaptno":"16","slokano":"006","spart1":"","spart2":"","sparts":[" द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।"," दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु॥6॥"]},{"chaptno":"16","slokano":"007","spart1":"","spart2":"","sparts":[" प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।"," न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7॥"]},{"chaptno":"16","slokano":"008","spart1":"","spart2":"","sparts":[" असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।"," अपरस्परसम्भूतं किमन्यत्कामहैतुकम्॥8॥"]},{"chaptno":"16","slokano":"009","spart1":"","spart2":"","sparts":[" एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।"," प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥9॥"]},{"chaptno":"16","slokano":"010","spart1":"","spart2":"","sparts":[" काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।"," मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः॥10॥"]},{"chaptno":"16","slokano":"011","spart1":"","spart2":"","sparts":[" चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।"," कामोपभोगपरमा एतावदिति निश्चिताः॥11॥"]},{"chaptno":"16","slokano":"012","spart1":"","spart2":"","sparts":[" आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।"," ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्॥12॥"]},{"chaptno":"16","slokano":"013","spart1":"","spart2":"","sparts":[" इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।"," इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13॥"]},{"chaptno":"16","slokano":"014","spart1":"","spart2":"","sparts":[" असौ मया हतः शत्रुर्हनिष्ये चापरानपि।"," ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी॥14॥"]},{"chaptno":"16","slokano":"015","spart1":"","spart2":"","sparts":[" आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।"," यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15॥"]},{"chaptno":"16","slokano":"016","spart1":"","spart2":"","sparts":[" अनेकचित्तविभ्रान्ता मोहजालसमावृताः।"," प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥16॥"]},{"chaptno":"16","slokano":"017","spart1":"","spart2":"","sparts":[" आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।"," यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥17॥"]},{"chaptno":"16","slokano":"018","spart1":"","spart2":"","sparts":[" अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।"," मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥18॥"]},{"chaptno":"16","slokano":"019","spart1":"","spart2":"","sparts":[" तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।"," क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥19॥"]},{"chaptno":"16","slokano":"020","spart1":"","spart2":"","sparts":[" आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।"," मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥20॥"]},{"chaptno":"16","slokano":"021","spart1":"","spart2":"","sparts":[" त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।"," कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥21॥"]},{"chaptno":"16","slokano":"022","spart1":"","spart2":"","sparts":[" एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।"," आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥22॥"]},{"chaptno":"16","slokano":"023","spart1":"","spart2":"","sparts":[" यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।"," न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥23॥"]},{"chaptno":"16","slokano":"024","spart1":"","spart2":"","sparts":[" तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।"," ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥24॥"]},{"chaptno":"17","slokano":"001","spart1":"","spart2":"","sparts":[" ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।"," तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥1॥"]},{"chaptno":"17","slokano":"002","spart1":"","spart2":"","sparts":[" त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।"," सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु॥2॥"]},{"chaptno":"17","slokano":"003","spart1":"","spart2":"","sparts":[" सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।"," श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥3॥"]},{"chaptno":"17","slokano":"004","spart1":"","spart2":"","sparts":[" यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।"," प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4॥"]},{"chaptno":"17","slokano":"005","spart1":"","spart2":"","sparts":[" अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।"," दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥5॥"]},{"chaptno":"17","slokano":"006","spart1":"","spart2":"","sparts":[" कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।"," मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्॥6॥"]},{"chaptno":"17","slokano":"007","spart1":"","spart2":"","sparts":[" आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।"," यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु॥7॥"]},{"chaptno":"17","slokano":"008","spart1":"","spart2":"","sparts":[" आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।"," रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥8॥"]},{"chaptno":"17","slokano":"009","spart1":"","spart2":"","sparts":[" कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।"," आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥9॥"]},{"chaptno":"17","slokano":"010","spart1":"","spart2":"","sparts":[" यातयामं गतरसं पूति पर्युषितं च यत्।"," उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10॥"]},{"chaptno":"17","slokano":"011","spart1":"","spart2":"","sparts":[" अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।"," यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥11॥"]},{"chaptno":"17","slokano":"012","spart1":"","spart2":"","sparts":[" अभिसंधाय तु फलं दम्भार्थमपि चैव यत्।"," इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12॥"]},{"chaptno":"17","slokano":"013","spart1":"","spart2":"","sparts":[" विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।"," श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥13॥"]},{"chaptno":"17","slokano":"014","spart1":"","spart2":"","sparts":[" देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।"," ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14॥"]},{"chaptno":"17","slokano":"015","spart1":"","spart2":"","sparts":[" अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।"," स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15॥"]},{"chaptno":"17","slokano":"016","spart1":"","spart2":"","sparts":[" मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।"," भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥16॥"]},{"chaptno":"17","slokano":"017","spart1":"","spart2":"","sparts":[" श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।"," अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥17॥"]},{"chaptno":"17","slokano":"018","spart1":"","spart2":"","sparts":[" सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।"," क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥18॥"]},{"chaptno":"17","slokano":"019","spart1":"","spart2":"","sparts":[" मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।"," परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19॥"]},{"chaptno":"17","slokano":"020","spart1":"","spart2":"","sparts":[" दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।"," देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥20॥"]},{"chaptno":"17","slokano":"021","spart1":"","spart2":"","sparts":[" यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।"," दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥21॥"]},{"chaptno":"17","slokano":"022","spart1":"","spart2":"","sparts":[" अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।"," असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥22॥"]},{"chaptno":"17","slokano":"023","spart1":"","spart2":"","sparts":[" ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।"," ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23॥"]},{"chaptno":"17","slokano":"024","spart1":"","spart2":"","sparts":[" तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।"," प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24॥"]},{"chaptno":"17","slokano":"025","spart1":"","spart2":"","sparts":[" तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।","दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥25॥"]},{"chaptno":"17","slokano":"026","spart1":"","spart2":"","sparts":[" सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।"," प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26॥"]},{"chaptno":"17","slokano":"027","spart1":"","spart2":"","sparts":[" यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।"," कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥27॥"]},{"chaptno":"17","slokano":"028","spart1":"","spart2":"","sparts":[" अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।"," असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28॥"]},{"chaptno":"18","slokano":"001","spart1":"","spart2":"","sparts":[" संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।"," त्यागस्य च हृषीकेश पृथक्केशिनिषूदन॥1॥"]},{"chaptno":"18","slokano":"002","spart1":"","spart2":"","sparts":[" काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।"," सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥2॥"]},{"chaptno":"18","slokano":"003","spart1":"","spart2":"","sparts":[" त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।"," यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥3॥"]},{"chaptno":"18","slokano":"004","spart1":"","spart2":"","sparts":[" निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।"," त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः॥4॥"]},{"chaptno":"18","slokano":"005","spart1":"","spart2":"","sparts":[" यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।"," यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥5॥"]},{"chaptno":"18","slokano":"006","spart1":"","spart2":"","sparts":[" एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।"," कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥6॥"]},{"chaptno":"18","slokano":"007","spart1":"","spart2":"","sparts":[" नियतस्य तु संन्यासः कर्मणो नोपपद्यते।"," मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥7॥"]},{"chaptno":"18","slokano":"008","spart1":"","spart2":"","sparts":[" दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।"," स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥8॥"]},{"chaptno":"18","slokano":"009","spart1":"","spart2":"","sparts":[" कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।"," सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥9॥"]},{"chaptno":"18","slokano":"010","spart1":"","spart2":"","sparts":[" न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।"," त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥10॥"]},{"chaptno":"18","slokano":"011","spart1":"","spart2":"","sparts":[" न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।"," यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥11॥"]},{"chaptno":"18","slokano":"012","spart1":"","spart2":"","sparts":[" अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।"," भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥12॥"]},{"chaptno":"18","slokano":"013","spart1":"","spart2":"","sparts":[" पञ्चैतानि महाबाहो कारणानि निबोध मे।"," सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥13॥"]},{"chaptno":"18","slokano":"014","spart1":"","spart2":"","sparts":["अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।"," विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥14॥"]},{"chaptno":"18","slokano":"015","spart1":"","spart2":"","sparts":[" शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।"," न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥15॥"]},{"chaptno":"18","slokano":"016","spart1":"","spart2":"","sparts":[" तत्रैवं सति कर्तारमात्मानं केवलं तु यः।"," पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥16॥"]},{"chaptno":"18","slokano":"017","spart1":"","spart2":"","sparts":[" यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।"," हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते॥17॥"]},{"chaptno":"18","slokano":"018","spart1":"","spart2":"","sparts":[" ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।"," करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः॥18॥"]},{"chaptno":"18","slokano":"019","spart1":"","spart2":"","sparts":[" ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।"," प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि॥19॥"]},{"chaptno":"18","slokano":"020","spart1":"","spart2":"","sparts":[" सर्वभूतेषु येनैकं भावमव्ययमीक्षते।"," अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥20॥"]},{"chaptno":"18","slokano":"021","spart1":"","spart2":"","sparts":[" पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्।"," वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥21॥"]},{"chaptno":"18","slokano":"022","spart1":"","spart2":"","sparts":[" यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।"," अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्॥22॥"]},{"chaptno":"18","slokano":"023","spart1":"","spart2":"","sparts":[" नियतं सङ्गरहितमरागद्वेषतः कृतम्।"," अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥23॥"]},{"chaptno":"18","slokano":"024","spart1":"","spart2":"","sparts":[" यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।"," क्रियते बहुलायासं तद्राजसमुदाहृतम्॥24॥"]},{"chaptno":"18","slokano":"025","spart1":"","spart2":"","sparts":[" अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्।"," मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥25॥"]},{"chaptno":"18","slokano":"026","spart1":"","spart2":"","sparts":[" मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।"," सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥26॥"]},{"chaptno":"18","slokano":"027","spart1":"","spart2":"","sparts":[" रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।"," हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥27॥"]},{"chaptno":"18","slokano":"028","spart1":"","spart2":"","sparts":[" अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।"," विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥28॥"]},{"chaptno":"18","slokano":"029","spart1":"","spart2":"","sparts":[" बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु।"," प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥29॥"]},{"chaptno":"18","slokano":"030","spart1":"","spart2":"","sparts":[" प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।"," बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥30॥"]},{"chaptno":"18","slokano":"031","spart1":"","spart2":"","sparts":[" यया धर्ममधर्मं च कार्यं चाकार्यमेव च।"," अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी॥31॥"]},{"chaptno":"18","slokano":"032","spart1":"","spart2":"","sparts":[" अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।"," सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी॥32॥"]},{"chaptno":"18","slokano":"033","spart1":"","spart2":"","sparts":[" धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।"," योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥33॥"]},{"chaptno":"18","slokano":"034","spart1":"","spart2":"","sparts":[" यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।"," प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥34॥"]},{"chaptno":"18","slokano":"035","spart1":"","spart2":"","sparts":[" यया स्वप्नं भयं शोकं विषादं मदमेव च।"," न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥35॥"]},{"chaptno":"18","slokano":"036","spart1":"","spart2":"","sparts":[" सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।"," अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥36॥"]},{"chaptno":"18","slokano":"037","spart1":"","spart2":"","sparts":[" यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।"," तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥37॥"]},{"chaptno":"18","slokano":"038","spart1":"","spart2":"","sparts":[" विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।"," परिणामे विषमिव तत्सुखं राजसं स्मृतम्॥38॥"]},{"chaptno":"18","slokano":"039","spart1":"","spart2":"","sparts":[" यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।"," निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥39॥"]},{"chaptno":"18","slokano":"040","spart1":"","spart2":"","sparts":[" न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।"," सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः॥40॥"]},{"chaptno":"18","slokano":"041","spart1":"","spart2":"","sparts":[" ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप।"," कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥41॥"]},{"chaptno":"18","slokano":"042","spart1":"","spart2":"","sparts":[" शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।"," ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥42॥"]},{"chaptno":"18","slokano":"043","spart1":"","spart2":"","sparts":[" शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।"," दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥43॥"]},{"chaptno":"18","slokano":"044","spart1":"","spart2":"","sparts":[" कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।"," परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥44॥"]},{"chaptno":"18","slokano":"045","spart1":"","spart2":"","sparts":[" स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।"," स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥45॥"]},{"chaptno":"18","slokano":"046","spart1":"","spart2":"","sparts":[" यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।"," स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥46॥"]},{"chaptno":"18","slokano":"047","spart1":"","spart2":"","sparts":[" श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।"," स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥47॥"]},{"chaptno":"18","slokano":"048","spart1":"","spart2":"","sparts":[" सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।"," सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥48॥"]},{"chaptno":"18","slokano":"049","spart1":"","spart2":"","sparts":[" असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।"," नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति॥49॥"]},{"chaptno":"18","slokano":"050","spart1":"","spart2":"","sparts":[" सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।"," समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥50॥"]},{"chaptno":"18","slokano":"051_052_053","spart1":"","spart2":"","sparts":["बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।"," शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥51॥","\nविविक्तसेवी लघ्वाशी यतवाक्कायमानसः।"," ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥52॥","\nअहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।"," विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥53॥"]},{"chaptno":"18","slokano":"054","spart1":"","spart2":"","sparts":[" ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।"," समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥54॥"]},{"chaptno":"18","slokano":"055","spart1":"","spart2":"","sparts":[" भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।"," ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥55॥"]},{"chaptno":"18","slokano":"056","spart1":"","spart2":"","sparts":[" सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।"," मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥56॥"]},{"chaptno":"18","slokano":"057","spart1":"","spart2":"","sparts":[" चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।"," बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥57॥"]},{"chaptno":"18","slokano":"058","spart1":"","spart2":"","sparts":[" मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।"," अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥58॥"]},{"chaptno":"18","slokano":"059","spart1":"","spart2":"","sparts":[" यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।"," मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥59॥"]},{"chaptno":"18","slokano":"060","spart1":"","spart2":"","sparts":[" स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।"," कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥60॥"]},{"chaptno":"18","slokano":"061","spart1":"","spart2":"","sparts":[" ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।"," भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥61॥"]},{"chaptno":"18","slokano":"062","spart1":"","spart2":"","sparts":[" तमेव शरणं गच्छ सर्वभावेन भारत।"," तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥62॥"]},{"chaptno":"18","slokano":"063","spart1":"","spart2":"","sparts":[" इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।"," विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥63॥"]},{"chaptno":"18","slokano":"064","spart1":"","spart2":"","sparts":[" सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।"," इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥64॥"]},{"chaptno":"18","slokano":"065","spart1":"","spart2":"","sparts":[" मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।"," मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥65॥"]},{"chaptno":"18","slokano":"066","spart1":"","spart2":"","sparts":[" सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।"," अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥66॥"]},{"chaptno":"18","slokano":"067","spart1":"","spart2":"","sparts":[" इदं ते नातपस्काय नाभक्ताय कदाचन।"," न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥67॥"]},{"chaptno":"18","slokano":"068","spart1":"","spart2":"","sparts":[" य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।"," भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥68॥"]},{"chaptno":"18","slokano":"069","spart1":"","spart2":"","sparts":[" न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।"," भविता न च मे तस्मादन्यः प्रियतरो भुवि॥69॥"]},{"chaptno":"18","slokano":"070","spart1":"","spart2":"","sparts":[" अध्येष्यते च य इमं धर्म्यं संवादमावयोः।"," ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥70॥"]},{"chaptno":"18","slokano":"071","spart1":"","spart2":"","sparts":[" श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।"," सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥71॥"]},{"chaptno":"18","slokano":"072","spart1":"","spart2":"","sparts":[" कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।"," कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय॥72॥"]},{"chaptno":"18","slokano":"073","spart1":"","spart2":"","sparts":[" नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।"," स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥73॥"]},{"chaptno":"18","slokano":"074","spart1":"","spart2":"","sparts":[" इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।"," संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥74॥"]},{"chaptno":"18","slokano":"075","spart1":"","spart2":"","sparts":[" व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।"," योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्॥75॥"]},{"chaptno":"18","slokano":"076","spart1":"","spart2":"","sparts":[" राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।"," केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥76॥"]},{"chaptno":"18","slokano":"077","spart1":"","spart2":"","sparts":[" तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।"," विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥77॥"]},{"chaptno":"18","slokano":"078","spart1":"","spart2":"","sparts":[" यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।"," तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्ममः॥78॥"]},{"chaptno":"3","slokano":"009","spart1":"","spart2":"","sparts":["यज्ञ-अर्थात् कर्मणः अन्यत्र लोकः अयम् कर्म-बन्धनः तत्-अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर"]}]